Vedasaara Shiva Stotram


     ॥ श्रीः॥

     ॥ अथ वेदसारशिवस्तोत्रम्॥


पशूनां पतिं पापनाशं परेशं
     à¤—जेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
     à¤®à¤¹ादेवमेकं स्मरामि स्मरारिम् ॥ १॥

महेशं सुरेशं सुरारातिनाशं
     à¤µिभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
     à¤¸à¤¦ानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २॥

गिरीशं गणेशं गले नीलवर्णं
     à¤—वेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
     à¤­à¤µानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३॥

शिवाकान्त शंभो शशाङ्कार्धमौले
     à¤®à¤¹ेशान शूलिञ्जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः
     à¤ª्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४॥

परात्मानमेकं जगद्बीजमाद्यं
     à¤¨िरीहं निराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
     à¤¤à¤®ीशं भजे लीयते यत्र विश्वम् ॥ ५॥

न भूमिर्नं चापो न वह्निर्न वायु-
     à¤°्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
     à¤¨ यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६॥

अजं शाश्वतं कारणं कारणानां
     à¤¶िवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
     à¤ª्रपद्ये परं पावनं द्वैतहीनम् ॥ ७॥

नमस्ते नमस्ते विभो विश्वमूर्ते
     à¤¨à¤®à¤¸्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य
     à¤¨à¤®à¤¸्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८॥

प्रभो शूलपाणे विभो विश्वनाथ
     à¤®à¤¹ादेव शंभो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे
     à¤¤्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९॥

शंभो महेश करुणामय शूलपाणे
     à¤—ौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक-
     à¤¸्त्वंहंसि पासि विदधासि महेश्वरोऽसि ॥ १०॥

त्वत्तो जगद्भवति देव भव स्मरारे
     à¤¤्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश
     à¤²िङ्गात्मके हर चराचरविश्वरूपिन् ॥ ११॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
वेदसारशिवस्तोत्रं संपूर्णम् ।

Comments

Popular posts from this blog

Shambhu Stuti

Vedasaara Shivastava Stotram (Shankaraachaarya Virachito)