Shree Kashi Vishwanath Suprabhatam

॥ श्रीकाशीविश्वनाथसुप्रभातम् ॥ ॥ श्रीगुरुभ्यो नमः॥ विश्वेशं माधवं धुण्डिं दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ १॥ उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो गङ्गोर्मि-संगति-शुभैः परिभूषितोऽब्जैः । श्रीधुण्डि-भैरव-मुखैः सहिताऽऽन्नपूर्णा माता च वाञ्छति मुदा तव सुप्रभातम् ॥ २॥ ब्रह्मा मुरारिस्त्रिपुरान्तकारिः भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनि-राहु-केतवः कुर्वन्तु सर्वे भुवि सुप्रभातम् ॥ ३॥ वाराणसी-स्थित-गजानन-धुण्डिराज तापत्रयापहरणे प्रथित-प्रभाव । आनन्द-कन्दलकुल-प्रसवैकभूमे नित्यं समस्त-जगतः कुरु सुप्रभातम् ॥ ४॥ ब्रह्मद्रवोपमित-गाङ्ग-पयः-प्रवाहैः पुण्यैः सदैव परिचुंबित-पादपद्मे । मध्ये-ऽखिलामरगणैः परिसेव्यमाने श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ ५॥ ...