Dakshinamurthy Stotram

दक्षिणामूर्ति स्तोत्रम् Dakshinamurthy Stotram ध्यानं मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं वर्षिष्ठांते वसद् ऋषिगणैः आवृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥१॥ वटविटपिसमीपेभूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् । त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेद दक्षं नमामि ॥२॥ चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा । गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥३॥ निधये सर्वविद्यानां भिषजे भवरोगिणाम् । गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥४॥ ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये । निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥५॥ चिद्घनाय महेशाय वटमूलनिवासिने । सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः ॥६॥ ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ॥७॥ स्तोत्रम् विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसम...